मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १९, ऋक् ९

संहिता

स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था ।
ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥

पदपाठः

स॒द्यः । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । शं॒स॒न्ति॒ । उ॒क्थ॒ऽशासः॑ । उ॒क्था ।
ये । ते॒ । हवे॑भिः । वि । प॒णीन् । अदा॑शन् । अ॒स्मान् । वृ॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥

सायणभाष्यम्

हेमघवन् धनवन्निन्द्र ते तव नु अद्य अभिष्टावभ्येषणे ये नरः उक्थशासः उक्थानां शंसितारः उक्था उक्थानि शस्त्राणि सद्यश्चित् सद्यएव शंसन्ति किं च ते तव हवेभिः स्तोत्रैः पणीन् अप्रदानशीलान वणिजोपि व्यदाशन् धनानि विशेषेणादापयन्निन्त्यर्थः । तानस्मान् तस्मै युज्याय सख्याय तत्सख्यमनुवर्तयितुं वृणीष्वापरिगृहाण ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०