मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १९, ऋक् १०

संहिता

ए॒ते स्तोमा॑ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य॑ञ्चो॒ दद॑तो म॒घानि॑ ।
तेषा॑मिन्द्र वृत्र॒हत्ये॑ शि॒वो भू॒ः सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥

पदपाठः

ए॒ते । स्तोमाः॑ । न॒राम् । नृ॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्य॑ञ्चः । दद॑तः । म॒घानि॑ ।
तेषा॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । शि॒वः । भूः॒ । सखा॑ । च॒ । शूरः॑ । अ॒वि॒ता । च॒ । नृ॒णाम् ॥

सायणभाष्यम्

हे नृतम नेतृतमेन्द्र तुभ्यं नरां नेतॄणां यएते स्तोमाः संघाः मघानि मंहनीयानि हवींषि ददतो ददन्तः अस्मद्भंचोस्मदभिमुखाः अभूवन्नि- तिशेषः । तेषां नॄणां वृत्रहत्ये संग्रामे शिवः कल्याणकृत् भूः भव । सखाच भूः । शूरः वीरःसन् अविता रक्षिता च भूः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०