मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् १

संहिता

उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् ।
जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इन्द्र॒ एन॑सो म॒हश्चि॑त् ॥

पदपाठः

उ॒ग्रः । ज॒ज्ञे॒ । वी॒र्या॑य । स्व॒धाऽवा॑न् । चक्रिः॑ । अपः॑ । नर्यः॑ । यत् । क॒रि॒ष्यन् ।
जग्मिः॑ । युवा॑ । नृ॒ऽसद॑नम् । अवः॑ऽभिः । त्रा॒ता । नः॒ । इन्द्रः॑ । एन॑सः । म॒हः । चि॒त् ॥

सायणभाष्यम्

यस्य निःश्वसितं वेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहं वंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ तृतीयोध्याय आरभ्यते । उग्रोजज्ञइति दशर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रम्यते-उग्रोदशेति । आभिप्लविके चतुर्थेहनि निष्केवल्ये एतत्सूक्तं निविद्धानं सूत्रितं च-चतुर्थस्योग्रोजज्ञइति निष्केवल्यमिति । महाव्रतेपि निष्केवल्येएतत्सूक्तं तथैव पंचमारण्यके सूत्रितं-उग्रोजज्ञेवीर्यायस्वधावानुदुब्रह्माण्यैरतश्रवस्येति । सौमिकचातुर्मास्येषु वैश्वदेवस्य स्थाने प्रथमं पृष्ठ्यमहः तत्रापि निष्केवल्ये एतत्सूक्तंनिविद्धानं सूत्रितं च-जनिष्ठाउग्रउग्रोजज्ञइति मध्यंदिनइति ।

स्वधावान् बलवान् उग्रओजस्वी ऊद्गूर्णोवा इन्द्रः वीर्याय वीर्यं कर्तुं जज्ञे बभूव । नर्यो नरहितःसन् यत्कर्म करिष्यन् भवति तदपः कर्म चक्रिः कर्तैव । चकिरिति किन्प्रत्ययस्य लिड्वद्भावात् नलोकाव्ययनिष्ठाखलर्थतृनामिति षष्ठीप्रतिषेधः । अपिच नृषदनं यज्ञगृहं युवा नित्यतरुणःसन् अवोभीरक्षणैः सार्धं जग्मिः गन्ता महश्चित् महतोप्येनसः पापात् नोस्माकं त्राता रक्षिता च भवेति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः