मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् २

संहिता

हन्ता॑ वृ॒त्रमिन्द्र॒ः शूशु॑वान॒ः प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती ।
कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥

पदपाठः

हन्ता॑ । वृ॒त्रम् । इन्द्रः॑ । शूशु॑वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार॑म् । ऊ॒ती ।
कर्ता॑ । सु॒ऽदासे॑ । अह॑ । वै । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । मुहुः॑ । आ । दा॒शुषे॑ । भू॒त् ॥

सायणभाष्यम्

इन्द्रः शूशुवानोवर्धमानःसन् वृत्रमसुरं हन्ता भवति । तृन्नन्तत्वादत्रषष्ठ्यभावः वीरो वीरःसन् जरितारं स्तोतारं नु क्षिप्रं ऊती ऊत्या रक्षया प्रावीत् प्रारक्षच्च । सुदासे राज्ञे लोकं जनपदं कर्ता च । यद्वा सुदासे कल्याणदानाय यजमानाय लोकं कर्ता च भवति इहाप्युत्त- रत्रापि तृन्नन्तत्वात्षष्ठ्यभावः । अह वै उ इति त्रयः पूरणाः । दाशुषे यजमानाय वसु धनं मुहुर्भूयोभूयो दाताच भूदभूत् आइति चार्थे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः