मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् ३

संहिता

यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड्ज॒नुषे॒मषा॑ळ्हः ।
व्या॑स॒ इन्द्र॒ः पृत॑ना॒ः स्वोजा॒ अधा॒ विश्वं॑ शत्रू॒यन्तं॑ जघान ॥

पदपाठः

यु॒ध्मः । अ॒न॒र्वा । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । शूरः॑ । स॒त्रा॒षाट् । ज॒नुषा॑ । ई॒म् । अषा॑ळ्हः ।
वि । आ॒से॒ । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । अध॑ । विश्व॑म् । श॒त्रु॒ऽयन्त॑म् । ज॒घा॒न॒ ॥

सायणभाष्यम्

युध्मो योद्धा अनर्वा अभिगन्तृरहितो युद्धेष्वपराङ्मुखोवा खजकृद्युद्धकृत् खले खजे इति युद्धनामसु पाठात् । समद्वा समत्कलहः तद्वान् शूरः शौर्योपेतः जनुषा जन्मना स्वभावतएव सत्राषाट् बहूनामभिभविता अषाह्ळः स्वयंच केनाप्यनभिभूतः स्वोजाः सुबलःईमयमिन्द्रः पृतनाः शत्रूणां सेनाः व्यासे विक्षिपति । अध अपि च शत्रूयन्तं शात्रवमाचरन्तं विश्वं सर्वं जघान हन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः