मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् ४

संहिता

उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः ।
नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्त्समन्ध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥

पदपाठः

उ॒भे इति॑ । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । आ । प॒प्रा॒थ॒ । तवि॑षीभिः । तु॒वि॒ष्मः॒ ।
नि । वज्र॑म् । इन्द्रः॑ । हरि॑ऽवान् । मिमि॑क्षन् । सम् । अन्ध॑सा । मदे॑षु । वै । उ॒वो॒च॒ ॥

सायणभाष्यम्

हे तुविष्मो बहुधनेन्द्र महित्वा महित्वेन तविषीभिर्बलैश्च उभे चित् उभे अपि रोदसी द्यावापृथिव्यौ आ पप्राथ आ पूरितवानसि । अथ- परोक्षस्तुतिः हरिवानश्ववानिन्द्रो वज्रं निमिमिक्षन् शत्रुषु प्रापयन् मदेषु यज्ञेषु निवित्सुवा अन्धसा सोमेन समुवोच संसेव्यते संगच्छते वा । उचसमवाये इतिधातुः वा इति पूरणः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः