मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् ५

संहिता

वृषा॑ जजान॒ वृष॑णं॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नर्यं॑ ससूव ।
प्र यः से॑ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा॑ ग॒वेष॑ण॒ः स धृ॒ष्णुः ॥

पदपाठः

वृषा॑ । ज॒जा॒न॒ । वृष॑णम् । रणा॑य । तम् । ऊं॒ इति॑ । चि॒त् । नारी॑ । नर्य॑म् । स॒सू॒व॒ ।
प्र । यः । से॒ना॒ऽनीः । अध॑ । नृऽभ्यः॑ । अस्ति॑ । इ॒नः । सत्वा॑ । गो॒ऽएष॑णः । सः । धृ॒ष्णुः ॥

सायणभाष्यम्

वृषा सेक्ता पिता कश्यपो वृषणं कामानां वर्षितारमिन्द्रं रणाय युद्धार्थं जजान । जनजनने इतिधातुः नर्यं नरहितं तमु तमेवेन्द्रं नारी चित् अदितिरपि ससूव सुषुवे । अधापि च यइन्द्रो नृभ्योनॄणां सेनानीः सेनानां नेता सन् प्रास्ति प्रभवति सइन्द्रः इनः सर्वस्य जगतः ईश्वरो भवति नियुत्वान् इन इतीश्वरनामसु पाठात् सत्वा शत्रूणां सादकश्च गवेषणः गवामन्वेष्टा च धृष्णुः शत्रूणां धर्षकश्च भवतीतिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः