मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् ६

संहिता

नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् ।
य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥

पदपाठः

नु । चि॒त् । सः । भ्रे॒ष॒ते॒ । जनः॑ । न । रे॒ष॒त् । मनः॑ । यः । अ॒स्य॒ । घो॒रम् । आ॒ऽविवा॑सात् ।
य॒ज्ञैः । यः । इन्द्रे॑ । दध॑ते । दुवां॑सि । क्षय॑त् । सः । रा॒ये । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः ॥

सायणभाष्यम्

योजनः अस्येन्द्रस्य घोरं शत्रूणां बाधकं मनोयज्ञैराविवासात् परिचरति सजनः नु इति प्रतिषेधे वर्तते चिदेवकारार्थे नूचित् नैव भ्रेषते स्थानात् नभ्रश्यति नरेषत् नैव क्षीयेत अपिच योजनोदुवांसि परिचरणसाधनानि स्तोत्रशस्त्राणीन्द्रे दधते निधत्ते तस्मै जनाय ऋतपाः यज्ञपाता ऋतेजाः यज्ञेजातश्च सइन्द्रो राये धनाय क्षयत् निवसति भवेदित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः