मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् ७

संहिता

यदि॑न्द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णम् ।
अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं नः॑ ॥

पदपाठः

यत् । इ॒न्द्र॒ । पूर्वः॑ । अप॑राय । शिक्ष॑न् । अय॑त् । ज्याया॑न् । कनी॑यसः । दे॒ष्णम् ।
अ॒मृतः॑ । इत् । परि॑ । आ॒सी॒त॒ । दू॒रम् । आ । चि॒त्र॒ । चित्र्य॑म् । भ॒र॒ । र॒यिम् । नः॒ ॥

सायणभाष्यम्

हे चित्र चायनीयेन्द्र यद्धनं पूर्वःपिता ज्येष्ठोभ्राता वा अपराय पुत्राय कनीयसे वा शिक्षन् प्रयच्छन् शिक्षतिर्दानकर्मा प्रीणाति शिक्षति इति दानकर्मसु पाठात् भवतीति शेषः । यच्च देष्णं देयं धनं ज्यायान् ज्येष्ठः कनीयसः अयत् प्राप्नुयात् यच्चापि धनं पितृतोलब्ध्वा पुत्रो- अमृतइत् अमृतएव सन् पितृगृहं विहाय दूरं पर्यासीत आस्ते तन्त्रिविधं चित्र्यं चायनीयं रयिं धनं नोस्मभ्यमाभर आहर ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः