मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् ९

संहिता

ए॒ष स्तोमो॑ अचिक्रद॒द्वृषा॑ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट ।
रा॒यस्कामो॑ जरि॒तारं॑ त॒ आग॒न्त्वम॒ङ्ग श॑क्र॒ वस्व॒ आ श॑को नः ॥

पदपाठः

ए॒षः । स्तोमः॑ । अ॒चि॒क्र॒द॒त् । वृषा॑ । ते॒ । उ॒त । स्ता॒मुः । म॒घ॒ऽव॒न् । अ॒क्र॒पि॒ष्ट॒ ।
रा॒यः । कामः॑ । ज॒रि॒तार॑म् । ते॒ । आ । अ॒ग॒न् । त्वम् । अ॒ङ्ग । श॒क्र॒ । वस्वः॑ । आ । श॒कः॒ । नः॒ ॥

सायणभाष्यम्

हे मघवन् धनवन्निन्द्र ते त्वदर्थं वृषा सेक्ता एषः स्तोमः सोमः सूयमानः अचिक्रदत् क्रन्दति उतापिच स्तामुः स्तोता अक्रपिष्ट अस्तौत् अपिच हे शक्र ते तव जरितारं स्तोतारं मां रायोधनस्य कामोभिलाष आगन् आगतः अतस्त्वं वस्वो धनं कर्मणिषष्ठी नोस्मभ्यं अंग क्षिप्रं आशकः धेहि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः