मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २०, ऋक् १०

संहिता

स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ ।
वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।
वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे इन्द्र सत्वं त्वयतायै इषे त्वया दत्तमन्नं भोक्तुं नोस्मान् धाः धारय । ये च मघवानो हविष्मन्तः त्मना स्वयमेव जुनन्ति हवींषि त्वां प्रति प्रेरयन्ति तानपि त्वयताया इषे धाः अपि च वस्वीषु अत्यंतं प्रशस्तासु स्तुतिषु ते तव जरित्रे स्तोत्रे मह्यं शक्तिः सामर्थ्यमस्तु । यद्वा जरित्रे मह्यं ते तव वस्वीषु प्रशस्ता शक्तिर्दानमस्तु स्पष्टमन्यत् ॥ १० ॥

असाविदेवमिति दशर्चं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रान्तं-असावीति । माध्यंदिनसवनेमैत्रावरुणस्योन्नीयमानमिदं सूक्तं सूत्रितं च-असाविदेवमिहोपयातेत्यनुसवनमिति । इन्द्रस्य वृत्रघ्नः पशावभिक्रत्वेति वपाया अनुवाक्या । सूत्रितं च-अभिक्रत्वेन्द्रभूरध- ज्मन् त्वंमहाँइन्द्रतुभ्यंहक्षाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः