मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २१, ऋक् २

संहिता

प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः ।
न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥

पदपाठः

प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः ।
नि । ऊं॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥

सायणभाष्यम्

यज्ञंप्रयन्ति यष्टारः बर्हिश्च विपयन्ति स्तृणन्ति । विपिः स्तरणकर्मा विदथे यज्ञे सोममादोग्रावाणश्च दुध्रवाचः दुर्धरवाचोभवन्ति । अपि च यशसो यशस्विनो दूरउपब्दः दूरेउपब्दिः शब्दो येषां ते दूरउपब्दः नृषाचः नॄन्नेतॄनृत्विजः सचन्तइति नृषाचो वृषणो ग्रावाणो गृभात् गृहात् गृहमध्यमग्रावा तस्मात् आइति चार्थे निभ्रियन्ते अभिषववेलायां निगृह्यन्ते । उइति परणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः