मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २१, ऋक् ३

संहिता

त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्क॒ः परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।
त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै । अ॒पः । क॒रिति॑ कः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।
त्वत् । वा॒व॒क्रे॒ । र॒थ्यः॑ । न । धेनाः॑ । रेज॑न्ते । विश्वा॑ । कृ॒त्रिमा॑णि । भी॒षा ॥

सायणभाष्यम्

हे शूरेन्द्र त्वं अहि ना वृत्रेण परिष्ठिता आक्रान्ताः पूर्वीर्बह्वीरपउदकानि स्रवितवै स्रवितुं कः अकार्षीः धेनाः नद्यश्च त्वत् त्वत्तोहेतोः रथ्योन रथिनइव वावके निर्गच्छन्ति । वकिकौटिल्ये इति धातुः । विश्वा विश्वानि कृत्रिमाणि भुवनानि च भीषा त्वत्तोभीत्या रेजन्ते कंपन्ते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः