मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २१, ऋक् ५

संहिता

न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभि॑ः ।
स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुरृ॒तं नः॑ ॥

पदपाठः

न । या॒तवः॑ । इ॒न्द्र॒ । जू॒जु॒वुः॒ । नः॒ । न । वन्द॑ना । श॒वि॒ष्ठ॒ । वे॒द्याभिः॑ ।
सः । श॒र्ध॒त् । अ॒र्यः । विषु॑णस्य । ज॒न्तोः । मा । शि॒श्नऽदे॑वाः । अपि॑ । गुः॒ । ऋ॒तम् । नः॒ ॥

सायणभाष्यम्

हे इन्द्र यातवोराक्षसाः नोस्मान् न जूजुवुः न हिंस्युः । जूजुवुरिति हिंसाक्रियः पृथक्वरणकियोवा । अपि च हेशविष्ठ बलवत्तमेन्द्र वन्दना वन्दनानि रक्षांसि वेद्याभिः वेद्याभ्यः प्रजाभ्योनोस्मान् नजूजुवुः नपृथक्वुर्वन्तु । किं च अर्यः स्वामी सइन्द्रः विषुणस्य विषमस्य जन्तोः प्राणिनः शासने शर्धत् उत्सहेत । अथच शिश्नदेवाः शिश्नेन दीव्यन्ति क्रीडन्तइति शिश्नदेवाः अब्रह्मचर्याइत्यर्थः नोस्माकं ऋतं यज्ञं सत्यं वा मापिगुः मापिगमन् । तथा च यास्कः-सउत्सहतां योविषुणस्यजन्तोर्विषमस्य माशिश्नदेवाअब्रह्मचर्याः शिश्नं श्नथतेः अपिगुरृतंनः सत्यंवा यज्ञंवेति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः