मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २१, ऋक् ७

संहिता

दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि ।
इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥

पदपाठः

दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वे॑ । अनु॑ । क्ष॒त्राय॑ । म॒मि॒रे॒ । सहां॑सि ।
इन्द्रः॑ । म॒घानि॑ । द॒य॒ते॒ । वि॒ऽसह्य॑ । इन्द्र॑म् । वाज॑स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥

सायणभाष्यम्

पूर्वे देवाश्चित् असुरा अपि असुर्याय बलाय क्षत्राय क्षदिर्हिंसाकर्मा बलं हिंसां च उभे कर्तुमित्यर्थः । हे इन्द्र ते तव सहांसि बलानि अनुम- मिरे । हीने इत्यनुः कर्मप्रवचनीयः । तव बलेभ्योहीना ममिरे इत्यर्थः । तथा च निगमान्तरं-अनुतेद्यौर्बृहतीवीर्यंममइति । अथपरोक्षस्तु- तिः इन्द्रः शत्रून् विषह्य मघानि मंहनीयानि धनानि दयते भक्तेभ्यः प्रयच्छति अपि चेन्द्रं वाजस्यान्नस्य सातौ लाभार्थं जोहुवन्त स्तुव- न्ति स्तोतारआह्वयन्ति वा ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः