मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २१, ऋक् ८

संहिता

की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिन्द्र॒ सौभ॑गस्य॒ भूरे॑ः ।
अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥

पदपाठः

की॒रिः । चि॒त् । हि । त्वाम् । अव॑से । जु॒हाव॑ । ईशा॑नम् । इ॒न्द्र॒ । सौभ॑गस्य । भूरेः॑ ।
अवः॑ । ब॒भू॒थ॒ । श॒त॒म्ऽऊ॒ते॒ । अ॒स्मे इति॑ । अ॒भि॒ऽक्ष॒त्तुः । त्वाऽव॑तः । व॒रू॒ता ॥

सायणभाष्यम्

हे इन्द्र ईशानं त्वां कीरिः स्तोता कारुः कीरिरिति स्तोतृनामसु पाठात् वसिष्ठोऽवसे रक्षणाय जुहाव हि स्तौति हि ह्वयति वा । चिदिति पूरणः अपि च हे शतमूते बहुरक्षेन्द्र अस्मे अस्माकं भूरेः प्रभूतस्य सौभगस्य धनस्य अवोरक्षा बभूथ बभूविथ अभिक्षत्तुरहिंस- कस्य त्वावतः त्वत्सदृशस्य वरूता वारयितश्च भव ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः