सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र ।
व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥
सखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ । न॒मः॒ऽवृ॒धासः॑ । म॒हि॒ना । त॒रु॒त्र॒ ।
व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒मी॒के । अ॒भिऽइ॑तिम् । अ॒र्यः । व॒नुषा॑म् । शवां॑सि ॥
हे इन्द्र ते तव नमोवृधासो नमसा स्तुत्या हविषा वा वर्धयितारो वयं विश्वह सर्वदा सखायः स्याम भवेम महिना महिम्ना तरुत्रः अत्यं- ततारकेन्द्र ते तवावसा रक्षणेन समीके संग्रामे अर्योभीतिमभिगमनं वनुषां हिंसकानां शवांसि बलानि च वन्वन्तु स्तोतारो हिंसन्तु ॥ ९ ॥