मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २२, ऋक् १

संहिता

पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रि॑ः ।
सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥

पदपाठः

पिब॑ । सोम॑म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒साव॑ । ह॒रि॒ऽअ॒श्व॒ । अद्रिः॑ ।
सो॒तुः । बा॒हुऽभ्या॑म् । सुऽय॑तः । न । अर्वा॑ ॥

सायणभाष्यम्

हे इन्द्र सोम पिब ससोमस्त्वा त्वां मन्दतु मादयतु । हे हर्यश्व ते त्वदर्थं सोतुरभिषवकर्तुर्बाहुभ्यामर्वान रश्मिभ्यामश्वइव सुयतः सुष्ठु परिगृहीतोद्रिर्ग्रावा यं सोमं सुषाव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः