मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २२, ऋक् ३

संहिता

बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् ।
इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥

पदपाठः

बोध॑ । सु । मे॒ । म॒घ॒ऽव॒न् । वाच॑म् । आ । इ॒माम् । याम् । ते॒ । वसि॑ष्ठः । अर्च॑ति । प्रऽश॑स्तिम् ।
इ॒मा । ब्रह्म॑ । स॒ध॒ऽमादे॑ । जु॒ष॒स्व॒ ॥

सायणभाष्यम्

हे मघवन् धनवन्निन्द्र ते तव प्रशस्तिं स्तुतिरूपां यां वाचं वसिष्ठः अर्चति तामिमां मे वसिष्ठस्य संबन्धिनीं वाचं स्वबोध सुष्ठु अभिबुध्य- स्व । किं च इमा इमानि ब्रह्म ब्रह्माणि सधमादे यज्ञे जुषस्व सेवस्व ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः