मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २२, ऋक् ४

संहिता

श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् ।
कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ॥

पदपाठः

श्रु॒धि । हव॑म् । वि॒ऽपि॒पा॒नस्य॑ । अद्रेः॑ । बोध॑ । विप्र॑स्य । अर्च॑तः । म॒नी॒षाम् ।
कृ॒ष्व । दुवां॑सि । अन्त॑मा । सचा॑ । इ॒मा ॥

सायणभाष्यम्

हे इन्द्र बिपिपानस्य विपीतवतो विपिबतोवा ममाद्रेर्ग्राव्णोहवमाह्वानं श्रुधि शृणु । तथाच निगमन्तरं-ग्रावभ्योवाचंवदतावदड्भ्यइति । विप्रस्य प्राज्ञस्य वसिष्ठस्यार्चतः स्तुवतो मनीषां स्तुतिं बोध बुध्यस्व च । इमा इमानि क्रियमाणानि दुवांसि परिचरणान्यन्तमान्तिकत- मानि बुद्धिस्थानि सचा सह सहायभूतःसन् वा कृष्व कुरु च ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः