मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २२, ऋक् ५

संहिता

न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् ।
सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥

पदपाठः

न । ते॒ । गिरः॑ । अपि॑ । मृ॒ष्ये॒ । तु॒रस्य॑ । न । सु॒ऽस्तु॒तिम् । अ॒सु॒र्य॑स्य । वि॒द्वान् ।
सदा॑ । ते॒ । नाम॑ । स्व॒ऽय॒शः॒ । वि॒व॒क्मि॒ ॥

सायणभाष्यम्

हे इन्द्र तुरस्य शत्रूणां हिंसकस्य ते तव गिरः स्तुतीरसुर्यस्य द्वितीयार्थे षष्ठी त्वदीयमसुर्यं बलं विद्वान् जानन् अहं नापिमृष्ये मृषिर्मार्ज- नकर्मा न मार्जयामि नपरित्यजामीत्यर्थः । सुष्टुतिं शोभनां स्तुतिं च नापिमृष्ये मृषेर्मार्जनकर्मत्वमन्यत्रापिदृश्यते । तद्यथा-मानोअग्नेस- ख्यापित्र्याणिप्रमर्षिष्ठाइति । किंतु स्वयशः असाधारणयशस्ते तव नाम स्तोत्रं सदा सदैव विवक्मि ब्रवीति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः