मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २२, ऋक् ६

संहिता

भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् ।
मारे अ॒स्मन्म॑घव॒ञ्ज्योक्क॑ः ॥

पदपाठः

भूरि॑ । हि । ते॒ । सव॑ना । मानु॑षेषु । भूरि॑ । म॒नी॒षी । ह॒व॒ते॒ । त्वाम् । इत् ।
मा । आ॒रे । अ॒स्मत् । म॒घ॒ऽव॒न् । ज्योक् । क॒रिति॑ कः ॥

सायणभाष्यम्

हे मघवन् ते तव सवना सवनानि सोमाभिषवणानि भूरि भूरीणि मानुषेष्वस्मसु वर्तन्तइतिशेषः । हिः पूरणः मनीषी स्तोता त्वामित् त्वामेव भूरि हवते नितरांस्तौति आह्वयति । अतोस्मदस्मत्ताआरे दूरे ज्योक् चिरकालं माकः आत्मानं माकार्षिः क्षिप्रमात्मानमस्मदा- सन्नं कुर्वित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः