मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २२, ऋक् ७

संहिता

तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि ।
त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥

पदपाठः

तुभ्य॑ । इत् । इ॒मा । सव॑ना । शू॒र॒ । विश्वा॑ । तुभ्य॑म् । ब्रह्मा॑णि । वर्ध॑ना । कृ॒णो॒मि॒ ।
त्वम् । नृऽभिः॑ । हव्यः॑ । वि॒श्वधा॑ । अ॒सि॒ ॥

सायणभाष्यम्

हे शूर् तुभ्येत् तुभ्यमेव इमा इमानि विश्वा विश्वानि सवना सवनानि सोमाभिषवणानि मया क्रियन्तइति शेषः तुभ्यं त्वदर्थमेव वर्धना वर्धनानि ब्रह्माणि स्तोत्राणि कृणोमि करोमि । त्वमेव नृभिर्यज्ञानां नेतृभिः विश्वधा सर्वप्रकारैः हव्योह्वातव्यः स्तुत्योवासि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः