मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २२, ऋक् ८

संहिता

नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र ।
न वी॒र्य॑मिन्द्र ते॒ न राधः॑ ॥

पदपाठः

नु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ । म॒हि॒मान॑म् । उ॒ग्र॒ ।
न । वी॒र्य॑म् । इ॒न्द्र॒ । ते॒ । न । राधः॑ ॥

सायणभाष्यम्

हे दस्म दर्शनीय मन्यमानस्य स्तुयमानस्य ते तव महिमानं नूचिदिति प्रतिषेधार्थः नु क्षिप्रं नूचिदुदश्नुवन्ति केचन न प्राप्नुवन्ति हे उग्र उद्गूर्ण ते तव राधो धनं हे इन्द्र ते वीर्यं सामर्थ्यं च नोदश्नुवन्ति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः