मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २३, ऋक् १

संहिता

उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ ।
आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥

पदपाठः

उत् । ऊं॒ इति॑ । ब्रह्मा॑णि । ऐ॒र॒त॒ । श्र॒व॒स्या । इन्द्र॑म् । स॒ऽम॒र्ये । म॒ह॒य॒ । व॒सि॒ष्ठ॒ ।
आ । यः । विश्वा॑नि । शव॑सा । त॒तान॑ । उ॒प॒ऽश्रो॒ता । मे॒ । ईव॑तः । वचां॑सि ॥

सायणभाष्यम्

श्रवस्यान्नेच्छया ब्रह्माणि स्तोत्राणि हवींषि चेन्द्रार्थं उदैरत् सर्वेऋषयइति शेषः उइति पूरणः हे वसिष्ठ त्वमपि समर्ये यज्ञे इन्द्रं महय स्तोत्रेण हविषा च पूजय अपि च यइन्द्रो विश्वानि भुवनानि शवसा बलेन ततान व्याप्तवान् सईवतः उपगमनवतो मे मम वचांसि स्तुतिरूपाणि वाक्यानि उपश्रोता भवत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः