मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २३, ऋक् ३

संहिता

यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥

पदपाठः

यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरि॑ऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थुः॒ ।
वि । बा॒धि॒ष्ट॒ । स्यः । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥

सायणभाष्यम्

गवेषणं गवां प्रापकं इन्द्रस्य रथं हरिभ्यामिन्द्रवाहाभ्यां युजे स्तोत्रैरहंयुनज्मि ब्रह्माणि स्तोत्राणि जुजुषाणं परिवारैः सेव्यमानमिन्द्रं उपास्थुरुपतिष्ठंत । स्यः सोयमिन्द्रोमहित्वा महत्वेन रोदसी द्यावापृथिव्यौ विबाधिष्ट व्यबाधिष्ट च अपि चेन्द्रोवृत्राणि शत्रून् अप्र- तिद्वन्द्वानि जघन्वान् हतवान् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः