मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २३, ऋक् ४

संहिता

आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र ।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥

पदपाठः

आपः॑ । चि॒त् । पि॒प्युः॒ । स्त॒र्यः॑ । न । गावः॑ । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तारः॑ । ते॒ । इ॒न्द्र॒ ।
या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ । त्वम् । हि । धी॒भिः । दय॑से । वि । वाजा॑न् ॥

सायणभाष्यम्

हे इन्द्र त्वत्प्रसादादापश्चित् आपः तर्योन गावः तर्योवशागावइव पिप्युः वर्धंताम् । अप्रसूतागावोमांसलाभवन्ति हि । ते तव जरितारः स्तोतारश्च ऋतमुदकं नक्षन् व्याप्नुवन् । अपि च त्वं नोस्मान् नियुतोवायुर्न वायुरिव अच्छ याहि अभियाहि । त्वं हि धीभिः प्रज्ञाभिः कर्मभिर्वा वाजानन्नानि विदयसे स्तोतृभ्यः प्रयच्छसि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः