मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २३, ऋक् ५

संहिता

ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे ।
एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥

पदपाठः

ते । त्वा॒ । मदाः॑ । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे ।
एकः॑ । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां तएते मदाः मदकाराः सोमाः मादयन्तु अपि च जरित्रे स्तोत्रे शुष्मिणं बलवन्तं तुविराधसं बहुधनं पुत्रं प्रयच्छसीति शेषः । हे शूर त्वं देवत्रा देवेषु एकएव मर्तान् मनुष्यान् दयसे हि दयतिरनुकंपार्थः अस्मिन् सवने यज्ञे मादयस्व ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः