मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २३, ऋक् ६

संहिता

ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः ।
स नः॑ स्तु॒तो वी॒रव॑त्पातु॒ [वी॒रव॑द्धातु॒] गोम॑द्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । पा॒तु॒ [धा॒तु॒] । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

वसिष्ठासोवसिष्ठाः वज्रबाहुं वज्रकल्पबाहुं वृषणं कामानां वर्षितारमिन्द्रं एवेत् उक्तेन प्रकारेणैव अर्कैरर्चनीयैःस्तोत्रैः अभ्यर्चन्ति अभिपू- जयन्ति स्तुतः सइन्द्रोनोस्मभ्यं वीरवत्पुत्रादियुक्तं गोमत् गोयुक्तं च धनं धातु ददातु स्पष्टमन्यत् ॥ ६ ॥

योनिष्टइन्द्रसदनेअकारीति षळृचं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रम्यते च योनिरिति । महाव्रते निष्केवल्येएतत्सूक्तं सूत्रितं च-योनिष्टइन्द्रसदनेअकारीत्येतस्यचतस्रः शस्त्वोत्तमामुपसंतत्योपोत्तमया परिदधातीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः