मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २४, ऋक् १

संहिता

योनि॑ष्ट इन्द्र॒ सद॑ने अकारि॒ तमा नृभि॑ः पुरुहूत॒ प्र या॑हि ।
असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमै॑ः ॥

पदपाठः

योनिः॑ । ते॒ । इ॒न्द्र॒ । सद॑ने । अ॒का॒रि॒ । तम् । आ । नृऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्र । या॒हि॒ ।
असः॑ । यथा॑ । नः॒ । अ॒वि॒ता । वृ॒धे । च॒ । ददः॑ । वसू॑नि । म॒मदः॑ । च॒ । सोमैः॑ ॥

सायणभाष्यम्

हे इन्द्र ते तव सदने सदनार्थं योनिः स्थानमकारि । हे पुरुहूत नृभिर्मरुद्भिः सार्धं तं योनिमाप्रयाहि । नोस्माकं यथाविता रक्षिता असः भवसि नोस्माकं वृधे वर्धनाय चासः तथा च वसूनि ददः अस्मभ्यं देहि सोमैरस्मदीयैर्ममदः मादयस्व च ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः