मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २४, ऋक् २

संहिता

गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हा॑ः सु॒तः सोम॒ः परि॑षिक्ता॒ मधू॑नि ।
विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ॥

पदपाठः

गृ॒भी॒तम् । ते॒ । मनः॑ । इ॒न्द्र॒ । द्वि॒ऽबर्हाः॑ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।
विसृ॑ष्टऽधेना । भ॒र॒ते॒ । सु॒ऽवृ॒क्तिः । इ॒यम् । इन्द्र॑म् । जोहु॑वती । म॒नी॒षा ॥

सायणभाष्यम्

हे इन्द्र द्विबर्हाः षष्ठ्यर्थे प्रथमा द्विबर्हसोद्वयोः स्थानयोः परिवृढस्य ते तवमनोगृभीतमस्माभिः परिगृहीतं सोमश्च सुतोभिषुतः मधूनि च परिषिक्तानि विसृष्टधेना विसृष्टजिह्वा मध्यमस्वरेणोच्चार्यमाणा सुवृक्तिः सुसमाप्तिरियं मनीषा स्तुतिरिन्द्रं जोहुवती भृशमाह्वयन्ती भरते संभ्रियते च ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः