आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि ।
वह॑न्तु त्वा॒ हर॑यो म॒द्र्य॑ञ्चमाङ्गू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥
आ । नः॒ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । इ॒दम् । ब॒र्हिः । सो॒म॒ऽपेया॑य । या॒हि॒ ।
वह॑न्तु । त्वा॒ । हर॑यः । म॒द्र्य॑ञ्चम् । आ॒ङ्गू॒षम् । अच्छ॑ । त॒वस॑म् । मदा॑य ॥
हे ऋजीषिन्निन्द्र नोस्माकमिदं बर्हिरिमं यज्ञं सोमपेयाय दिवः स्वर्गादायाह्यागच्छ पृथिव्या अन्तरिक्षाच्च आपः पृथिवीत्यन्तरिक्षनामसु पाठात् आयाहि अपि च तवसं प्रवृद्धं बलवन्तं वा मड्मंचं मदभिमुखं त्वा त्वां आंगूषं स्तोत्रं अच्छाभि मदाय मदार्थं हरयोश्वावहन्तु ॥ ३ ॥