मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २४, ऋक् ४

संहिता

आ नो॒ विश्वा॑भिरू॒तिभि॑ः स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।
वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ॥

पदपाठः

आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । ब्रह्म॑ । जु॒षा॒णः । ह॒रि॒ऽअ॒श्व॒ । या॒हि॒ ।
वरी॑वृजत् । स्थवि॑रेभिः । सु॒ऽशि॒प्र॒ । अ॒स्मे इति॑ । दध॑त् । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ ॥

सायणभाष्यम्

हे हर्यश्व हरिनामकाश्च सुशिप्र शोभनहनो इन्द्र विश्वाभिः सर्वाभिरूतिभीरक्षाभिः सजोषाः संगतः स्थविरेभिर्वृद्धैर्मरुद्भिः सह वरीवृजत् शत्रून् भृशं हिंसन् अस्मे अस्मभ्यं वृषणं कामानां वर्षितारं शुष्मं वलवन्तं पुत्रं दधत् प्रयच्छन् ब्रह्म स्तोत्रं जुषाणः सेवमानो नोस्मानाया- हि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः