मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २४, ऋक् ६

संहिता

ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।
इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ ।
इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे इन्द्र नोस्मान् एव एवं वार्यस्य तृतीयार्थे षष्ठी वरणीयेन धनेन पूर्धि पूरय । ते तव महीं महतीं सुमतिं अनुग्रहबुद्धिं प्रवेविदाम भृशं लभेमहि मघवड्भोस्मभ्यं सुवीरां शोभनपुत्रादियुतां इषमन्नं पिन्व प्रयच्छेत्यर्थः । स्पष्टमन्यत् ॥ ६ ॥

आतेमहइन्द्रेति षळृचमष्टमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं आतइत्यनुक्रान्तम् । महाव्रते निष्केवल्ये इदमादीनि पंचसूक्तानि सूत्रितंच- आतेमहइन्द्रोत्युग्रेति पंचसूक्तानीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः