मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २५, ऋक् १

संहिता

आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मर॑न्त॒ सेना॑ः ।
पता॑ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो॑ विष्व॒द्र्य१॒॑ग्वि चा॑रीत् ॥

पदपाठः

आ । ते॒ । म॒हः । इ॒न्द्र॒ । ऊ॒ती । उ॒ग्र॒ । सऽम॑न्यवः । यत् । स॒म्ऽअर॑न्त । सेनाः॑ ।
पता॑ति । दि॒द्युत् । नर्य॑स्य । बा॒ह्वोः । मा । ते॒ । मनः॑ । वि॒ष्व॒द्र्य॑क् । वि । चा॒री॒त् ॥

सायणभाष्यम्

हे उग्र उद्गूर्ण ओजस्विन्निन्द्र यद्यदा समन्यवः समोमन्युरभिमानोयासां ताः समन्यवः सेनाः समरन्त युध्यन्ते युद्धार्थं संगच्छन्ते वा तदा नर्यस्य नरहितस्य महोमहतः ते तव बाह्वोः स्थितं विद्युदायुधं विद्युत् हेतिरिति वज्रनामसु पाठात् ऊती ऊत्यै अस्मद्रक्षायै आपताति आ पततु । ते तव विष्वड्मक् विष्वग्गन्तृमनः माविचारीत् अस्मास्वेव स्थिरं भवतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः