मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २५, ऋक् २

संहिता

नि दु॒र्ग इ॑न्द्र श्नथिह्य॒मित्राँ॑ अ॒भि ये नो॒ मर्ता॑सो अ॒मन्ति॑ ।
आ॒रे तं शंसं॑ कृणुहि निनि॒त्सोरा नो॑ भर स॒म्भर॑णं॒ वसू॑नाम् ॥

पदपाठः

नि । दुः॒ऽगे । इ॒न्द्र॒ । श्न॒थि॒हि॒ । अ॒मित्रा॑न् । अ॒भि । ये । नः॒ । मर्ता॑सः । अ॒मन्ति॑ ।
आ॒रे । तम् । शंस॑म् । कृ॒णु॒हि॒ । नि॒नि॒त्सोः । आ । नः॒ । भ॒र॒ । स॒म्ऽभर॑णम् । वसू॑नाम् ॥

सायणभाष्यम्

हे इन्द्र दुर्गे युद्धे ये मर्तासो मर्ताः अभि अभिमुखाः सन्तो नोस्मानमन्ति अभि भवन्ति तानमित्रान् शत्रून् निश्नथिहि निजहि । अपि च निनित्सोः अस्मान्निन्दितुमिच्छतो नरस्य तं शंसं आशंसनं आरे दूरे कृणुहि । अपि च नोस्मभ्यं वसूनां धनानां संभरणं समूहमाभर आ हर ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः