मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २५, ऋक् ३

संहिता

श॒तं ते॑ शिप्रिन्नू॒तयः॑ सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु ।
ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥

पदपाठः

श॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः॑ । सु॒ऽदासे॑ । स॒हस्र॑म् । शंसाः॑ । उ॒त । रा॒तिः । अ॒स्तु॒ ।
ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य । अ॒स्मे इति॑ । द्यु॒म्नम् । अधि॑ । रत्न॑म् । च॒ । धे॒हि॒ ॥

सायणभाष्यम्

हे शिप्रिन् उष्णीषिन् इन्द्र ते त्वदीयाः शतं बह्व्यः ऊतयो रक्षाः सुदासे शोभनदानाय मह्यं सन्तु । सहस्रं शंसाः शंसनीयाःकामाश्च सन्तु । उतापिच रातिर्धनमस्तु । वनुषो हिंसकस्य मर्त्यस्य वधः हिंसासाधनमायुधं च जहि अपिचास्मै अधि अस्मासु द्युम्नं दीप्तिमदन्नं यशोवा रत्नं च धेहि । तथाच यास्कः-द्युम्नं द्योततेर्यशोवान्नंवा अस्मे द्युम्नमधिरत्नंच धेहि अस्मासु द्युम्नं च रत्नं च धेहीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः