मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २५, ऋक् ४

संहिता

त्वाव॑तो॒ ही॑न्द्र॒ क्रत्वे॒ अस्मि॒ त्वाव॑तोऽवि॒तुः शू॑र रा॒तौ ।
विश्वेदहा॑नि तविषीव उग्रँ॒ ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ॥

पदपाठः

त्वाऽव॑तः । हि । इ॒न्द्र॒ । क्रत्वे॑ । अस्मि॑ । त्वाऽव॑तः । अ॒वि॒तुः । शू॒र॒ । रा॒तौ ।
विश्वा॑ । इत् । अहा॑नि । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । ओकः॑ । कृ॒णु॒ष्व॒ । ह॒रि॒ऽवः॒ । न । म॒र्धीः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वावतः त्वत्सदृशस्य क्रत्वे कर्मणे अस्मि भवामि हि । हे शूर अवितुः विश्वस्य रक्षितुस्त्वावतस्त्वत्सदृशस्य रातौ दाने च अस्मी- तिशेषः । हे तविषीवोबलवन् उग्र ओजस्विन्निन्द्र विश्वेत् विश्वान्येव अहानि ओकोस्माकं स्थानं कृणुष्व कुरु । हे हरिवो हरिवन् नमर्धीः अस्मान्नहिंस्याः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः