मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २५, ऋक् ५

संहिता

कुत्सा॑ ए॒ते हर्य॑श्वाय शू॒षमिन्द्रे॒ सहो॑ दे॒वजू॑तमिया॒नाः ।
स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाज॑म् ॥

पदपाठः

कुत्साः॑ । ए॒ते । हर्यि॑ऽअश्वाय । शू॒षम् । इन्द्रे॑ । सहः॑ । दे॒वऽजू॑तम् । इ॒या॒नाः ।
स॒त्रा । कृ॒धि॒ । सु॒ऽहना॑ । शू॒र॒ । वृ॒त्रा । व॒यम् । तरु॑त्राः । स॒नु॒या॒म॒ । वाज॑म् ॥

सायणभाष्यम्

एते वयं वसिष्ठाः हर्यश्वाय हरिनामकाश्वायेन्द्राय शूषं सुखकरं स्तोत्रं कुत्साः कुर्वाणाः करोतेः कुत्सशब्दनिष्पत्तिः इन्द्रे देवजूतं देवैः प्रेरितं सहोबलमियानाः याचमानाः तरुत्राः दुर्गाणि तीर्णाः सन्तो वाजं बलं सनुयाम लभेमहि । अपि च हे शूर वृत्रा वृत्राणि शत्रून् सुहना हन्तुं सुशकानि सत्रा सर्वदा कृधि कुरु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः