मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २६, ऋक् १

संहिता

न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तासः॑ ।
तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥

पदपाठः

न । सोमः॑ । इन्द्र॑म् । असु॑तः । म॒मा॒द॒ । न । अब्र॑ह्माणः । म॒घऽवा॑नम् । सु॒तासः॑ ।
तस्मै॑ । उ॒क्थम् । ज॒न॒ये॒ । यत् । जुजो॑षत् । नृ॒ऽवत् । नवी॑यः । शृ॒णव॑त् । यथा॑ । नः॒ ॥

सायणभाष्यम्

मघवानं धनवन्तमिन्द्रमसुतोन अभिषुतः सोमोन ममाद न तर्पयति सुतासोभिषुताः अपि सोमा अब्रह्माणः स्तोत्रहीनाः न ममदुः ममा- देत्येतदाख्यातं बहुवचनान्ततया विपरिणतं सदत्रसंबध्यते अतएव त्रिष्वपि सवनेषु पावमानैः स्तोत्रैः स्तुताएव सोमाहूयन्ते । अपि च नोस्मदीयं यदुक्थं इन्द्रोजुजोषत् सेवेत यथा च नृवत् राजेव आदरेण शृणवत् शृणुयात् तथा नवीयोनवतरमुक्थं शस्त्रं तस्माइन्द्राय जनये पठामीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०