मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २६, ऋक् २

संहिता

उ॒क्थौ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तासः॑ ।
यदीं॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥

पदपाठः

उ॒क्थेऽउ॑क्थे । सोमः॑ । इन्द्र॑म् । म॒मा॒द॒ । नी॒थेऽनी॑थे । म॒घऽवा॑नम् । सु॒तासः॑ ।
यत् । ई॒म् । स॒ऽबाधः॑ । पि॒तर॑म् । न । पु॒त्राः । स॒मा॒नऽद॑क्षाः । अव॑से । हव॑न्ते ॥

सायणभाष्यम्

यद्यस्मात् उक्थेउक्थे शस्त्रेशस्त्रे क्रियमाणे सोमोमघवानमिन्द्रं ममाद मादयति नीथेनीथे स्तोत्रेस्तोत्रे क्रियमाणे सुतासोभिषुताः सोमाः मादयन्ति तस्मादीमेः नमिन्द्रं सबाधः परस्परं मिलिताः समानदक्षाः समानोप्साहा ऋत्विजः । पुत्राः पितरं न पितरमिव अवसे तर्प- णाय स्वरक्षणाय वा हवन्ते शस्त्रैः स्तोत्रैश्च स्तवन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०