मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २६, ऋक् ४

संहिता

ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इन्द्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घाना॑म् ।
मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥

पदपाठः

ए॒व । तम् । आ॒हुः॒ । उ॒त । शृ॒ण्वे॒ । इन्द्रः॑ । एकः॑ । वि॒ऽभ॒क्ता । त॒रणिः॑ । म॒घाना॑म् ।
मि॒थः॒ऽतुरः॑ । ऊ॒तयः॑ । यस्य॑ । पू॒र्वीः । अ॒स्मे इति॑ । भ॒द्राणि॑ । स॒श्च॒त॒ । प्रि॒याणि॑ ॥

सायणभाष्यम्

यस्येन्द्रस्य मिथः तुरो बाधनाः संश्लिष्टावा पूर्वीः पूर्व्योबह्व्यः ऊतयो रक्षाः सन्ति तं एव एवमुक्तगुणमाहुः पूर्वे ऋषयः । उतापिचाद्यापि सइन्द्रो मघानां मंहनीयानां धनानां विभक्ता दातेति एको मुख्यः तरणिरापदस्तारयितेति शृण्वे श्रूयते तस्य च प्रसादादस्मे अस्मान् भद्राणि मंगलानि प्रियाणि कल्याणानि सश्चत सेवन्तां ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०