मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २६, ऋक् ५

संहिता

ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति ।
स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒व । वसि॑ष्ठः । इन्द्र॑म् । ऊ॒तये॑ । नॄन् । कृ॒ष्टी॒नाम् । वृ॒ष॒भम् । सु॒ते । गृ॒णा॒ति॒ ।
स॒ह॒स्रिणः॑ । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

वसिष्ठोनॄन् । नृणां षष्ठ्यर्थे द्वितीया । ऊतये रक्षायै कृष्टीनां प्रजानां वृषभं कामानां वर्षितारमिन्द्रं सुते अभिषुते सति एव एवं पूर्वोक्तप्र- कारेण गृणाति स्तौति । अथ प्रत्यक्षस्तुतिः हे इन्द्र नोस्मभ्यं सहस्रिणः सहस्रसंख्याकान् वाजान् अन्नान्युपमाहि प्रयच्छेत्यर्थः । स्पष्ट- मन्यत् ॥ ५ ॥

इन्द्रं नरइति पंचर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं इन्द्रंनरइत्यनुक्रान्तं महव्रते निष्केवल्य एतत्सूक्तं उक्तं तृतीयत्वेनेन्द्रेपशौ वपापुरोडाशहविषां आद्यास्तिस्रः क्रमेणानुवाक्याः । सूत्रितं च-इन्द्रंनरोनेमधिताहवन्तउरुंनोलोकमनुनेषिविद्वानिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०