मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २७, ऋक् १

संहिता

इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥

पदपाठः

इन्द्र॑म् । नरः॑ । ने॒मऽधि॑ता । ह॒व॒न्ते॒ । यत् । पार्याः॑ । यु॒नज॑ते । धियः॑ । ताः ।
शूरः॑ । नृऽसा॑ता । शव॑सः । च॒का॒नः । आ । गोऽम॑ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥

सायणभाष्यम्

यद्यदा पार्याः युद्धभरणनिमित्तास्ताः प्रसिद्धा धियः कर्माणि युनजते प्रयुज्यन्ते तदानरो नेतारः यमिन्द्रं नेमधिता नेमधितौ संग्रामे हवन्ते ह्वयन्ति स त्वं शूरः नृषाता नृणां संभक्ता च शवसो बलस्य बलं चकानः कामयमानश्च सन् गोमति गावः संत्यस्मिन्निति गोमन् तस्मिन् व्रजे गोष्ठे समूहे नोस्मान् आभज प्रापय ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११