मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २७, ऋक् २

संहिता

य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्य॑ः ।
त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राधः॑ ॥

पदपाठः

यः । इ॒न्द्र॒ । शुष्मः॑ । म॒घ॒ऽव॒न् । ते॒ । अस्ति॑ । शिक्ष॑ । सखि॑ऽभ्यः । पु॒रु॒ऽहू॒त॒ । नृऽभ्यः॑ ।
त्वम् । हि । दृ॒ळ्हा । म॒घ॒ऽव॒न् । विऽचे॑ताः । अप॑ । वृ॒धि॒ । परि॑ऽवृतम् । न । राधः॑ ॥

सायणभाष्यम्

हे पुरुहूत बहुभिराहूतेन्द्र ते तव यः शुष्मोबलमस्ति तं शुष्मं सखिभ्यः स्तोतृभ्योनृभ्यः शिक्ष देहि अपि च हे मघवन् हि यस्मात् दृह्ळा दृढानि पुरां द्वाराणि बिभेदिथेतिशेषः तस्मात्सत्वं विचेताः विविक्तप्रज्ञः सन् परिवृतं तिरोहितं राधो धनं अपवृधि अस्मभ्यमपवृणु नेति संप्रत्यर्थे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११