मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २७, ऋक् ३

संहिता

इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ ।
ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥

पदपाठः

इन्द्रः॑ । राजा॑ । जग॑तः । च॒र्ष॒णी॒नाम् । अधि॑ । क्षमि॑ । विषु॑ऽरूपम् । यत् । अस्ति॑ ।
ततः॑ । द॒दा॒ति॒ । दा॒शुषे॑ । वसू॑नि । चोद॑त् । राधः॑ । उप॑ऽस्तुतः । चि॒त् । अ॒र्वाक् ॥

सायणभाष्यम्

सइन्द्रो जगतो जंगमस्य पश्वादेः यतोराजा ईश्वरोभवति चर्षणीनां मनुष्याणां च राजा भवति अधिक्षमि क्षमायां विषुरूपं नानारूपं यद्धनमस्ति तस्यापि राजा भवति ततोदाशुषे यजमानाय वसूनि धनानि ददाति सइन्द्रोस्माभिरुपस्तुतएवसन् राधो धनमर्वागस्मदभि- मुखं चोदत् प्रेरयतु चिदवधारणे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११