नू इ॑न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑ ।
गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥
नु । इ॒न्द्र॒ । रा॒ये । वरि॑वः । कृ॒धि॒ । नः॒ । आ । ते॒ । मनः॑ । व॒वृ॒त्या॒म॒ । म॒घाय॑ ।
गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । व्यन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
हे इन्द्र नोस्मभ्यं राये धनप्राप्तये नु क्षिप्रं वरिवोधनं वेदः वरिवइति धननामसु पाठात् त्वं कृधि देहि वयं ते तव मनः मघाय मंहनीयाय स्तुत्या आववृत्याम आवर्तयाम । स्पष्टमन्यत् ॥ ५ ॥
ब्रह्माणइन्द्रेति पंचर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं ब्रह्माणइत्यनुक्रान्तं महाव्रते निष्केवल्ये पंचमत्वेनास्य सूक्तस्य विनियो- गउक्तः अष्टमेहनि प्रउगशस्त्रे आद्यस्तृचऎन्द्रः ।