मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २८, ऋक् १

संहिता

ब्रह्मा॑ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः ।
विश्वे॑ चि॒द्धि त्वा॑ वि॒हव॑न्त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥

पदपाठः

ब्रह्मा॑ । नः॒ । इ॒न्द्र॒ । उप॑ । या॒हि॒ । वि॒द्वान् । अ॒र्वाञ्चः॑ । ते॒ । हर॑यः । स॒न्तु॒ । यु॒क्ताः ।
विश्वे॑ । चि॒त् । हि । त्वा॒ । वि॒ऽहव॑न्त । मर्ताः॑ । अ॒स्माक॑म् । इत् । शृ॒णु॒हि॒ । वि॒श्व॒म्ऽइ॒न्व॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं विद्वान् जानन् नोस्माकं ब्रह्म स्तोत्रं उपयाहि ते तव हरयोश्वाश्चार्वांचोस्मदभिमुखा युक्ताः सन्तु । हे विश्वमिन्व विश्वप्रीणयि- तरिन्द्र त्वा त्वां विश्वे सर्वे मर्ता मनुष्याः चिद्धि यद्यपि विहवंत पृथ्क् हवन्ते तथाप्यस्माकमित् अस्माकमेव हवं शृणुहि शृणु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२