मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २८, ऋक् २

संहिता

हवं॑ त इन्द्र महि॒मा व्या॑न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी॑णाम् ।
आ यद्वज्रं॑ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा॑ जनिष्ठा॒ अषा॑ळ्हः ॥

पदपाठः

हव॑म् । ते॒ । इ॒न्द्र॒ । म॒हि॒मा । वि । आ॒न॒ट् । ब्रह्म॑ । यत् । पासि॑ । श॒व॒सि॒न् । ऋषी॑णाम् ।
आ । यत् । वज्र॑म् । द॒धि॒षे । हस्ते॑ । उ॒ग्र॒ । घो॒रः । सन् । क्रत्वा॑ । ज॒नि॒ष्ठाः॒ । अषा॑ळ्हः ॥

सायणभाष्यम्

हे शवसिन् बलवन्निन्द्र यद्यदा ऋषीणां ब्रह्म स्तोत्रं पासि रक्षसि स्तोत्रस्य रक्षणं नाम फलप्रदानं तदा ते तव महिमा हवं हवः स्तोता तं व्यानट् व्याप्नोतु । हे उग्र ओजस्विन्निन्द्र यद्यदा हस्ते पाणौ वज्रमादधिषे धारयसि तदा क्रत्वा शत्रुवधादिना कर्मणा घोरः सन् अषाह्ळः शत्रुभिरनभिभूतोजनिष्ठाः अजनिष्ठाः अभवः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२