मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २८, ऋक् ३

संहिता

तव॒ प्रणी॑तीन्द्र॒ जोहु॑वाना॒न्त्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ ।
म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू॑तुजिं चि॒त्तूतु॑जिरशिश्नत् ॥

पदपाठः

तव॑ । प्रऽनी॑ती । इ॒न्द्र॒ । जोहु॑वानान् । सम् । यत् । नॄन् । न । रोद॑सी॒ इति॑ । नि॒नेथ॑ ।
म॒हे । क्ष॒त्राय॑ । शव॑से । हि । ज॒ज्ञे । अतू॑तुजिम् । चि॒त् । तूतु॑जिः । अ॒शि॒श्न॒त् ॥

सायणभाष्यम्

हे इन्द्र यद्यस्त्वं तव प्रणीती प्रणीत्या प्रणयनेन जोहुवानान् भृशंस्तुवतोनॄन्न स्तोतॄतिव रोदसी द्यावापृथिव्यौ सन्निनेथ संगमयसि दिवि पृथिव्यां च स्तोतॄन्प्रतिष्ठापयसीत्यर्थः । सत्वं महे महते क्षत्राय धनाय रयिः क्षत्रमिति धननामसु पाठात् शवसे बलाय च यजमाने- भ्योमहद्धनं बलं च दातुमित्यर्थः जज्ञे जज्ञिषे । हीति हेत्वर्थे यतएवमतः कारणात् अतूतुजिं अदातारं अयजमानं तूतुजिः दाता यजमानः अशिश्नत् श्नथतिर्हिंसाकर्मा तस्माल्लडर्थेलुङ् हिनस्ति चिदत्येवकारार्थे ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२